Gopala-Tapaniya

Gopala-Tapaniya

Gopala-Tapaniya Upanishad

॥ गोपालतापिन्युपनिषत् ॥

श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥
हरिः ॐ सच्चिदानन्दरूपय कृष्णायाक्लिष्टकर्मणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥
मुनयो ह वै ब्राह्मणमूचुः । कः परमो देवः कुतो मृत्युर्बिभेति ।
कस्य विज्ञानेनाखिलं विज्ञातं भवति । केनेदं विश्वं संसरतीति ।
तदुहोवाच ब्राह्मणः । कृष्णो वै परमं दैवतम् ।
गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेनैतद्विज्ञातं भवति ।
स्वाहेदं विश्वं संसरतीति । तदुहोचुः । कः कृष्णः । गोविन्दश्च
कोऽसाविति । गोपीजनवल्लभश्च कः । का स्वाहेति । तानुवाच ब्राह्मणः ।
पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः ।
तन्माया चेति सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति
सोऽमृतो भवतीति । ते होचुः । किं तद्रूपं किं रसनं किमाहो
तद्भजनं तत्सर्वं विविदिषतामाख्याहीति । तदुहोवाच हैरण्यो
गोपवेषमभ्रामं कल्पद्रुमाश्रितम् । तदिह श्लोका भवन्ति ॥
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥ १॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।
दिव्यालंकरणोपेतं रत्नपङ्कजमध्यगम् ॥ २॥
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयञ्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ ३॥ इति॥
तस्य पुना रसनमितिजलभूमिं तु संपाताः । कामादि कृष्णायेत्येकं
पदम् । गोविन्दायेति द्वितीयम् । गोपीजनेति तृतीयम् । वल्लभेति तुरीयम् ।
स्वाहेति पञ्चममिति पञ्चपदं जपन्पञ्चाङ्गं द्यावाभूमी
सूर्याचन्द्रमसौ तद्रूपतया ब्रह्म संपद्यत इति । तदेष श्लोकः
क्लीमित्येतदादावादाय कृष्णाय गोविन्दाय गोपीजनवल्लभायेति
बृहन्मानव्यासकृदुच्चरेद्योऽसौ गतिस्तस्यास्ति मङ्क्षु नान्या
गतिः स्यादिति । भक्तिरस्य भजनम् । एतदिहामुत्रोपाधिनैराश्ये-
नामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ।
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधा आराधयन्ति ।
गोपीजनवल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगदेतत्सुरेताः ॥ १॥
वायुर्यथैको भुवनं प्रविष्टो
जन्येजन्ये पञ्चरूपो बभूव ।
कृष्णस्तदेकोऽपि जगद्धितार्थं
शब्देनासौ पञ्चपदो विभाति ॥ २॥ इति॥
ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्याखिलाधारिणो
ब्रूहीति । तानुवाच यत्तस्य पीठं हैरण्याष्टपलाशमम्बुजं
तदन्तराधिकानलास्त्रयुगं तदन्तरालाद्यर्णाखिलबीजं कृष्णाय
नम इति बीजाढ्यं सब्रह्मा ब्राह्मणमादायानङ्गगायत्रीं
यथावदालिख्य भूमण्डलं शूलवेष्टितं कृत्वाङ्गवासुदेवादि-
रुक्मिण्यादिस्वशक्तिं नन्दादिवसुदेवादिपार्थादिनिध्यादिवीतं
यजेत्सन्ध्यासु प्रतिपत्तिभिरुपचारैः । तेनास्याखिलं भवत्यखिलं
भवतीति ॥ २॥ तदिह श्लोका भवन्ति ।
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन्बहुधा यो विभाति ।
तं पीठं येऽनुभजन्ति धीरा-
स्तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ ३॥
नित्यो नित्यानां चेतनश्चेतनाना-
मेको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरा-
स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४॥
एतद्विष्णोः परमं पदं ये
नित्योद्युक्तास्तं यजन्ति न कामात् ।
तेषामसौ गोपरूपःप्रयत्ना-
त्प्रकाशयेदात्मपदं तदेव ॥ ५॥
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यां तस्मै गोपयति स्म कृष्णः ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुः शरणं व्रजेत् ॥ ६॥
ओङ्कारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्तिः ॥ ७॥
एतस्मा एव पञ्चपदादभूव-
न्गोविन्दस्य मनवो मानवानाम् ।
दशार्णाद्यास्तेऽपि संक्रन्दनाद्यै-
रभ्यस्यन्ते भूतिकामैर्यथावत् ॥ ८॥
पप्रच्छुस्तदुहोवाच ब्रह्मसदनं चरतो मे ध्यातः
स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत । कोपदेष्टा
मे पुरुषः पुरस्तादाविर्बभूव । ततः प्रणतो मायानुकूलेन
हृदा मह्यमष्टादशार्णस्वरूपं सृष्टये दत्त्वान्तर्हितः ।
पुनस्ते सिसृक्षतो मे प्रादुरभूवन् ।
तेष्वक्षरेषु विभज्य भविष्यज्जगद्रूपं प्राकाशयम् ।
तदिह कादाकालात्पृथिवीतोऽग्निर्बिन्दोरिन्दुस्तत्संपातात्तदर्क इति ।
क्लींकारादजस्रं कृष्णादाकाशं खाद्वायुरुत्तरात्सुरभिविद्याः
प्रादुरकार्षमकार्षमिति । तदुत्तरात्स्त्रीपुंसादिभेदं
सकलमिदं सकलमिदमिति ॥ ३॥
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयति ।
ओङ्कारालिकं मनुमावर्तयेत् । सङ्गरहितोभ्यानयत् । तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।
तस्मादेनं नित्यमावर्तवेन्नित्यमावर्तयेदिति । ॥४॥
तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं
तृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदाद्व्योमेति ।
वैष्णवं पञ्चव्याहृतिमथं मन्त्रं कृष्णावभासकं
कैवल्यस्य सृत्यै सततमावर्तयेत्सततमावर्तयेदिति ॥ ५॥
तदत्र गाथाः
यस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।
तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥ १॥
पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् ।
चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् ॥ २॥
ततो विशुद्धं विमलं विशोक-
मशेषलोभादिनिरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति ॥ ३॥
तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं
वृन्दावनसुरभूरुहतलासीनं सततं मरुद्गणोऽहं
परमया स्तुत्या स्तोष्यामि ॥
ॐ नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः ॥ १॥
नमो विज्ञानरूपाय परमानन्दरूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः ॥ २॥
नमः कमलनेत्राय नमः कमलमालिने ।
नमः कमलनाभाय कमलापतये नमः ॥ ३॥
बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ।
रमामानसहंसाय गोविन्दाय नमोनमः ॥ ४॥
कंसवंशविनाशाय केशिचाणूरघातिने ।
वृषभध्वजवन्द्याय पार्थसारथये नमः ॥ ५॥
वेणुनादविनोदाय गोपालायाहिमर्दिने ।
कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥ ६॥
पल्लवीवदनाम्भोजमालिने नृत्तशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमोनमः ॥ ७॥
नमः पापप्रणाशाय गोवर्धनधराय च ।
पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥ ८॥
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमोननमः ॥ ९॥
प्रसीद परमानन्द प्रसीद परमेश्वर ।
आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥ १०॥
श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।
संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥ ११॥
केशव क्लेशहरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥ १२॥
अथैवं स्तुतिभिराराधयामि । तथा यूयं पञ्चपदं जपन्तः
श्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति होवाच
हैरण्यगर्भः । अमुं पञ्चपदं मनुमार्तयेयेद्यः स
यात्यनायासतः केवलं तत्पदं तत् । अनेजदेकं मनसो जवीयो
नैनद्देवा आप्नुवन्पूर्वमर्षदिति । तस्मात्कृष्ण एव परमं
देवस्तं ध्यायेत् । तं रसयेत् । तं यजेत् । तं भजेत् ।
ॐ तत्सदित्युपनिषत् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति गोपालपूर्वतापिन्युपनिषत्समाप्ता ॥
ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा
सर्वेश्वरं गोपालं कृष्णमूचिरे । उवाच ताः
कृष्ण अमुकस्मै ब्राह्मणाय भैक्ष्यं दातव्यमिति
दुर्वासस इति । कथं यास्यामो जलं तीर्त्वा यमुनायाः ।
यतः श्रेयो भवति कृष्णेति ब्रह्मचारीत्युक्त्वा मार्गं
वो दास्यति । यं मां स्मृत्वाऽगाधा गाधा भवति ।
यं मां स्मृत्वाऽपूतः पूतो भवति । यं मां स्मृत्वाऽव्रती
व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति ।
यं मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति । यं मां
स्मृत्वाऽगाधतः स्पर्शरहितापि सर्वा सरिद्गाधा भवति ।
श्रुत्वा तद्वाक्यं हि वै रौद्रं स्मृत्वा तद्वाक्येन तीर्त्वा
तत्सौर्यां हि वै गत्वाश्रमं पुण्यतमं हि वै नत्वा मुनिं
श्रेष्ठतमं हि वै रौद्रं चेति । दत्त्वास्मै ब्राह्मणाय
क्षीरमयं घृतमयमिष्टतमं हि वै मृष्टतमं
हि तुष्टः स्नात्वा भुक्त्वा हित्वशिषं प्रयुज्यान्नं ज्ञात्वादात् ।
कथं यास्यामो तीर्त्वा सौर्याम् । स होवाच मुनिर्दुर्वासनं
मां स्मृत्वा वो दास्यतीति मार्गम् । तासां मध्ये हि श्रेष्ठा
गान्धर्वी ह्युवाच तं तं हि वै तामिः । एवं कथं कृष्णो
ब्रह्मचारी । कथं दुर्वासनो मुनिः । तां हि मुख्यां विधाय
पूर्वमनुकृत्वा तूष्णीमासुः । शब्दवानाकाशः शब्दाकाशाभ्यां
भिन्नः । तस्मिन्नाकाशस्तिष्ठति । आकाशे तिष्ठति
स ह्याकाशस्तं न वेद । स ह्यात्मा ।
अहं कथं भोक्ता भवामि । रूपवदिदं तेजो रूपाग्निभ्यां
भिन्नम् । तस्मिन्नग्निस्तिष्ठति । अग्नौ तिष्ठति अग्निस्तं
न वेद । स ह्यात्मा । अहं कथं भोक्ता भवामि । रसवत्य
आपो रसाद्भ्यां भिन्नाः । तास्वापस्तिष्ठन्ति । अप्सु
भूमिर्गन्धभूमिभ्यां भिन्ना । तस्यां भूमिस्तिष्ठति ।
भूमौ तिष्ठति । भूमिस्तं न वेद । स ह्यात्मा । अहं कथं
भोक्ता भवामि । इदं हि मनसैवेदं मनुते । तानिदं हि गृह्णाति ।
यत्र सर्वमात्मैवाभूत्तत्र कुत्र वा मनुते । कथं वा गच्छतीति ।
स ह्यात्मा । अहं कथं भोक्ता भवामि । अयं हि कृष्णो यो हि
प्रेष्ठः शरीरद्वयकारणं भवति । द्वा सुपर्णा भवतो
ब्रह्मणोऽहं संभूतस्तथेतरो भोक्ता भवति । अन्यो हि साक्षी
भवतीति । वृक्षधर्मे तौ तिष्ठतः । अतोओ भोक्तभोक्तारौ । पूर्वो
हि भोक्ता भवति । तथेतरोऽभोक्ता कृष्णो भवतीति । यत्र विद्याविद्ये
न विदाम । विद्याविद्याभ्यां भिन्नो विद्यामयो हि यः कथं विषयी
भवतीति । यो ह वै कामेन कामान्कामयते स कामी भवति । यो ह वै
त्वकामेन कामान्कामयते सोऽकामी भवति । जन्मजराभ्यां
भिन्नः स्थाणुरयमच्छेद्योऽयं योऽसौ सूर्ये तिष्ठति योऽसौ
गोषु तिष्ठति । योऽसौ गोपान्पालयति । योऽसौ सर्वेषु देवेषु
तिष्ठति । योऽसौ सर्वैर्देवैर्गीयते । योऽसौ सर्वेषु भूतेष्वाविश्य
भूतानि विदधाति स वो हि स्वामी भवति । सा होवाच गान्धर्वी ।
कथं वास्मासु जातो गोपालः कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः ।
को वास्य मन्त्रः किं स्थानम् । कथं वा देवक्या जातः । को वास्य
जायाग्रामो भवति । कीदृशी पूजास्य गोपालस्य भवति । साक्षात्प्रकृति-
परोऽयमात्मा गोपालः कथं त्ववतीर्णो भूम्यां हि वै
सा गान्धर्वी मुनिमुवाच । स होवाच तां हि वै पूर्वं नारायणो
यस्मिंल्लोका ओताश्च प्रोताश्च तस्य हृत्पद्माजातोऽब्जयोनिस्तपस्तपस्तप्त्वा
तस्मै ह वरं ददौ । स कामप्रश्नमेव वव्रे । तं हास्मै ददौ ।
स होवाचाब्जयोनिः यो वावताराणां मध्ये श्रेष्ठोऽवतारः
को भवति । येन लोकास्तुष्टा भवन्ति । यं स्मृत्वा मुक्ता
अस्मात्संसाराद्भवन्ति । कथं वास्यावतारस्य ब्रह्मता भवति ।
स होवाच तं हि वै नारायणो देवः । सकाम्या मेरोः शृङ्गे
यथा सप्तपुर्यो भवन्ति तथा निष्काम्याः सकाम्या
भूगोपालचक्रे सप्तपुर्यो भवन्ति । तासां मध्ये साक्षाद्ब्रह्म
गोपालपुरी भवति । सकाम्या निष्काम्या देवानां सर्वेषां
भूतानां भवति । अथास्य भजनं भवति । यथा हि वै सरसि
पद्मं तिष्ठति तथा भूम्यां तिष्ठति । चक्रेण रक्षिता
मथुरा । तस्माद्गोपालपुरी भवति बृहद्बृहद्वनं मधोर्मधुवनं
तालस्तालवनं काम्यं काम्यवनं बहुला बहुलवनं कुमुदः
कुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति
भाण्डीरवनं श्रीवनं लोहवनं वृन्दावनमेतैरावृता पुरी
भवति । तत्र तेष्वेव गगनेश्वेवं देवा मनुष्या गन्धर्वा नागाः
किंनरा गायन्ति नृत्यन्तीति । तत्र द्वादशादित्या एकादश रुद्रा
अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्च विनायका
वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो
गोपालेश्वरो भद्रेश्वर इत्यष्टावन्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति ।
द्वे वने स्तः कृष्णवनं भद्रवनम् । तयोरन्तर्द्वादश वनानि
पुण्यानि पुण्यतमानि । तेश्वेव देवास्तिष्ठन्ति । सिद्धाः सिद्धिं प्राप्ताः ।
तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्य-
अनिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिः । वनेश्वेवं मथुरास्वेवं
द्वादश मूर्तयो भवन्ति । एकां हि रुद्रा यजन्ति । द्वितीयां हि ब्रह्मा यजति ।
तृतीयां ब्रह्मजा यजन्ति । चतुर्थीं मरुतो यजन्ति । पञ्चमीं विनायका
यजन्ति । षष्ठीं च वसवो यजन्ति । सप्तमीमृषयो यजन्ति ।
नवमीमप्सरसो यजन्ति । दशमी वै ह्यन्तर्धाने तिष्ठति । एकादशीति-
स्वपदानुगा । द्वादशीति भूम्यां तिष्ठति । तां हि ये यजन्ति ते
मृत्युं तरन्ति । मुक्तिं लभन्ते । गर्भजन्मजरामरणतापत्रयात्मकदुःखं
तरन्ति । तदप्येते श्लोका भवन्ति ।
संप्राप्य मथुरा रम्यां सदा ब्रह्मादिवन्दिताम् ।
शङ्खचक्रगदाशार्ङ्गरक्षितां मुसलादिभिः ॥ १॥
यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः ।
रमानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ २॥
चतुःशब्दो भवेदेको ह्योंकारश्च उदाहृतः । तस्मादेव
परो रजसेति सोऽहमित्यवधार्यात्मानं गोपालोऽहमिति भावयेत् ।
स मोक्षमश्नुते । स ब्रह्मत्वमधिगच्छति । स ब्रह्मविद्भवति ।
स गोपाञ्जीवानात्मत्वेन सृष्टिपर्यन्तमालाति । स गोपालो
ह्यों भवति । तत्सत्सोऽहम् । परं ब्रह्म कृष्णात्मको
नित्यानन्दैक्यस्वरूपः सोऽहम् । तत्सद्गोपालोऽहमेव । परं
सत्यमबाधितं सोऽहमित्यत्मानमादाय मनसैक्यं कुर्यात् ।
आत्मानं गोपालोऽहमिति भावयेत् । स एवाव्यक्तोऽनन्तो नित्यो गोपालः ।
मथुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति ।
शङ्खचक्रगदापद्मवनमालाधरस्य वै ॥ १॥
विश्वरूपं परंज्योतिः स्वरूपं रूपवर्जितम् ।
मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा ॥ २॥
योऽर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि ।
तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा ॥ ३॥
चतुर्धा चास्यावतारभेदत्वेन यजन्ति माम् ।
युगानुवर्तिनो लोका यजन्तीह सुमेधसः ॥ ४॥
गोपालं सानुजं कृष्णं रुक्मिण्या सह तत्परम् ।
गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ॥ ५॥
रामोऽहमनिरुद्धोऽहमात्मानं चार्चयेद्बुधः ।
मयोक्तेन स धर्मेण निष्कामेन विभागशः ॥ ६॥
तैरहं पूजनीयो हि भद्रकृष्णनिवासिभिः ।
तद्धर्मगतिहीना ये तस्यां मयि परायणाः ॥ ७॥
कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः ।
यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ॥ ८॥
यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ।
स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् ।
एकमक्षरं यद्विश्रुतमनेकाक्षरं कथं संभूतम् ।
स होवाच हि तं पूर्वमेकमेवाद्वितीयं ब्रह्मासीत् ।
तस्मादव्यक्तमेकाक्षरम् । तस्मदक्षरान्महत् ।
महतोऽहङ्कारः । तस्मादहङ्कारात्पञ्च तन्मात्राणि ।
तेभ्यो भूतानि । तैरावृतमक्षरम् ।
अक्षरोऽहमोंकारोऽयमजरोऽमरोऽभयोऽमृतो ब्रह्माभयं हि वै ।
स मुक्तोऽहमस्मि । अक्षरोऽहमस्मि ।
सत्तामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा ॥ ९॥
एकमेवाद्वयं ब्रह्म मायया च चतुष्टयम् ।
रोहिणीतनयो विश्व अकाराक्षरसंभवः ॥ १०॥
तैजसात्मकः प्रद्युम्न उकाराक्षरसंभवः ।
प्राज्ञात्मकोऽनिरुद्धोऽसौ मकाराक्षरसंभवः ॥ ११॥
अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ।
कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी ॥ १२॥
व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ज्ञानसंगतः ।
प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥ १३॥
तस्मादोंकारसंभूतो गोपालो विश्वसंस्थितः ।
क्लीमोंकारस्यैकतत्वं वदन्ति ब्रह्मवादिनः ॥ १४॥
मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते ।
अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् ॥ १५॥
दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् ।
श्रीवत्सलाञ्छनं हृत्स्थं कौस्तुभं प्रभया युतम् ॥ १६॥
चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् ।
सुकेयूरान्वितं बाहुं कण्ठमालसुशोभितम् ॥ १७॥
द्युमत्किरीटमभयं स्फुरन्मकरकुण्डलम् ।
हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ॥ १८॥
ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ।
मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा ॥ १९॥
मत्सारभूतं यद्यत्स्यान्मथुरा सा निगद्यते ।
अष्टदिक्पालकैर्भूमिपद्मं विकसितं जगत् ॥ २०॥
संसारार्णवसंजातं सेवितं मम मानसे ।
चन्द्रसूर्यत्विषो दिव्या ध्वजा मेरुर्हिरण्मयः ॥ २१॥
आतपत्रं ब्रह्मलोकमथोर्ध्वं चरणं स्मृतम् ।
श्रीवत्सस्य स्वरूपं तु वर्तते लाञ्छनैः सह ॥ २२॥
श्रीवत्सलक्षणं तस्मात्कथ्यते ब्रह्मवादिभिः ।
येन सूर्याग्निवाक्चन्द्रतेजसा स्वस्वरूपिणा ॥ २३॥
वर्तते कौस्तुभाख्यमणिं वदन्तीशमानिनः ।
सत्त्वं रजस्तम इति अहंकारश्चतुर्भुजः ॥ २४॥
पञ्चभूतात्मकं शङ्खं करे रजसि संस्थितम् ।
बालस्वरूपमित्यन्तं मनश्चक्रं निगद्यते ॥ २५॥
आद्या माया भवेच्छार्ङ्गं पद्मं विश्वं करे स्थितम् ।
आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता ॥ २६॥
धर्मार्थकामकेयूरैर्दिव्यैर्दिव्यमयेरितैः ।
कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाऽजया ॥ २७॥
माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ।
कूटस्थं सत्त्वरूपं च किरीटं प्रवदन्ति माम् ॥ २८॥
क्षीरोत्तरं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् ।
ध्यायेन्मम प्रियं नित्यं स मोक्षमधिगच्छति ॥ २९॥
स मुक्तो भवति तस्मै स्वात्मानं तु ददामि वै ।
एतत्सर्वं मया प्रोक्तं भविष्यद्वै विधे तव ॥ ३०॥
स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥ ३१॥
स होवाचाब्जयोनिः । व्यक्तीनां मूर्तीनां प्रोक्तानां कथं
चाभरणानि भवन्ति । कथं वा देवा यजन्ति । रुद्रा यजन्ति ।
ब्रह्मा यजति । ब्रह्मजा यजन्ति । विनायका यजन्ति । द्वादशादित्या
यजन्ति । वसवो यजन्ति । गन्धर्वा यजन्ति । सपदानुगा अन्तर्धाने
तिष्ठन्ति । कां मनुष्या यजन्ति । सहोवाच तं हि वै नारायणो
देव आद्या व्यक्ता द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषु
देवेषु सर्वेषु मनुष्येषु तिष्ठन्तीति । रुद्रेषु रौद्री
ब्रह्माणीषु ब्राह्मी देवेषु दैवी मनुष्येषु मानवी विनायकेषु
विघ्नविनाशिनी आदित्येषु ज्योतिर्गन्धर्वेषु गान्धर्वी अप्सरःस्वेवं
गौर्वसुष्वेवं काम्या अन्तर्धानेष्वप्रकाशिनी आविर्भावतिरोभावा
स्वपदे तिष्ठन्ति । तामसी राजसी सात्त्विकी मानुषी विज्ञानघन
आनन्दसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ।
ॐ प्राणात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै प्राणात्मने नमोनमः ॥ १॥
ॐ श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥ २॥
ॐअपानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै अपानात्मने नमोनमः ॥ ३॥
ॐ श्रीकृष्णायानिरुद्धाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥
ॐ व्यानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै व्यानात्मने नमोनमः ॥ ५॥
ॐ श्रीकृष्णाय रामाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥
ॐउदानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै उदानात्मने नमोनमः ॥ ७॥
ॐ श्रीकृष्णाय देवकीनन्दनाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ८॥
ॐ समानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै समानात्मने नमोनमः ॥ ९॥
ॐ श्रीगोपालाय निजस्वरूपाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १०॥
ॐ योऽसौ प्रधानात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ११॥
ॐ योऽसाविन्द्रियात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १२॥
ॐ योऽसौ भूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १३॥
ॐ योऽसावुत्तमपुरुषो गोपाल ॐ तत्सद्भूर्भुवः सुवस्तमै वै नमोनमः ॥ १४॥
ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १५॥
ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥ १६॥
ॐ जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १७॥
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ १८॥
रुद्राय नमः । आदित्याय नमः । विनायकाय नमः । सूर्याय नमः ।
विद्यायै नमः । इन्द्राय नमः । अग्नये नमः । यमाय नमः ।
निरृतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः ।
ईशानाय नमः । सर्वेभ्यो देवेभ्यो नमः ।
दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे ।
कर्तृत्वं सर्वभूतानामन्तर्धानो बभूव सः ॥ १९॥
ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मुने ।
तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालयान्तिकम् ॥ २०॥ इति॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति गोपालोत्तरतापिन्युपनिषत्समाप्ता ॥