Nrisimha-Tapaniya

Nrisimha-Tapaniya

Nrisimha-Tapaniya Upanishad

॥ नृसिंहतापिन्युपनिषत् ॥

॥ नृसिंहपूर्वतापिन्युपनिषत् ॥
यत्तुर्योङ्काराग्रपराभूमिस्थिरवरासनम् ।
प्रतियोगिविनिर्मुक्ततुर्यंतुर्यमहं महः ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ आपो वा इदमासंस्तत्सलिलमेव ।
स प्रजापतिरेकः पुष्करपर्णे समभवत् ।
तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति ।
तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति
तत्कर्मणा करोति तदेषभ्यनूक्ता ।
कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषेति
उपैनं तदुपनमति यत्कामो भवति य एवं वेद
स तपोऽतप्यत स तपस्तप्त्वा स एतं मन्त्रराजं
नारसिंहमानुष्टभमपश्यत्तेन वै सर्वमिदमसृजत
यदिदं किञ्च । तस्मात्सर्वमानुष्टुभमित्याचक्षते
यदिदं किञ्च । अनुष्टुभो वा इमानि भूतानि जायन्ते
अनुष्टुभा जातानि जीवन्ति अनुष्टुभं प्रयन्त्यभिसंविशन्ति
तस्यैशा भवति अनुष्टुप्प्रथमा भवति
अनुष्टुबुत्तमा भवति वाग्वा अनुष्टुप् वाचैव प्रयन्ति
वाचोद्यन्ति परमा वा एषा छन्दसां यदनुष्टुबिति ॥ १॥
ससागरां सपर्वतां सप्तद्वीपां वसुन्धरां तत्साम्नः
प्रथमं पादं जानीयात्
यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं
तत्साम्नो द्वितीतयं पादं जानीयाद्वसुरुद्रादित्यैः
सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं जानीयात्
ब्रह्मस्वरूपं निरञ्जनं परमं व्योमकं तत्साम्नश्चतुर्थं
पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति
ऋग्यजुःसामाथर्वाणश्चत्वारो वेदाः साङ्गाः
सशाखाश्चत्वारः पादा भवन्ति किं ध्यानं किं दैवतं
कान्यङ्गानि कानि दैवतानि किं छन्दः क ऋषिरिति ॥ २॥
स होवाच प्रजापतिः स यो ह वै सावित्र्यस्याष्टाक्षरं
पदं श्रियाभिषिक्तं तत्साम्नोऽङ्गं वेद श्रिया
हैवाभिषिच्यते सर्वे वेदाः प्राणवादिकास्तं प्रवणं
तत्साम्नोऽङ्गं वेद स त्रींल्लोकाञ्जयति चतुर्विंशत्यक्षरा
महालक्ष्मीर्यजुस्तत्साम्नोऽङ्गं वेद स आयुर्यशःकीर्ति-
ज्ञानैश्वैर्यवान्भवति तस्मादिदं साङ्गं साम
जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति सावित्रीं
प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय नेच्छन्ति
द्वात्रिंशदक्षरं साम जानीयाद्यो जानीते
सोऽमृतत्वं च गच्छति सावित्रीं लक्ष्मीं यजुः प्रणवं
यदि जानीयात् स्त्री शूद्रः स मृतोऽधो गच्छति
तस्मात्सर्वदा नाचष्टे यद्याचष्टे
स आचार्यस्तेनैव स मृतोऽधो गच्छति ॥ ३॥
स होवाच प्रजापतिः अग्निर्वै देवा इदं सर्वं विश्वा
भूतानि प्राणा वा इन्द्रियाणि पशवोऽन्नमभृतं
सम्राट् स्वराड्विराट् तत्साम्नः प्रथमं पादं जानीयात्
ऋग्यजुःसामाथर्वरूपः सूर्योऽन्तरादित्ये हिरण्मयः
पुरुषस्तत्साम्नो द्वितीयं पादं जानीयात् य ओषधीनां
प्रभुर्भवति ताराधिपतिः सोमस्तत्साम्नस्तृतीयं पादं
जानीयात् स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः
परमः स्वराट् तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते
सोऽमृतत्वं च गच्छति उग्रं प्रथमस्याद्यं ज्वलं
द्वितीयस्याद्यं नृसिंहं तृतीयस्याद्यं मृत्युं
चतुर्थस्याद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च
गच्छति तस्मादिदं साम यत्र कुत्रचिन्नाचष्टे यदि
दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै
शिष्याय वा चेति ॥ ४॥
स होवाच प्रजापतिः क्षीरोदार्णवशायिनं नृकेसरिविग्रहं
योगिध्येयं परं पदं साम जानीयाद्यो जानीते सोऽमृतत्वं
च गच्छति वीरं प्रथमास्याद्यार्ध्यान्त्यं तं स
द्वितीयस्याद्यार्ध्यान्त्यं हं भी तृतीयस्याद्यार्ध्यान्त्यं
मृत्युं चतुर्थस्याद्यार्ध्यान्त्यं साम तु जानीयाद्यो जानीते
सोऽमृतत्वं च गच्छति तस्मादिदं साम येन
केनचिदाचार्यमुखेन यो जानीते स तेनैव शरीरेण
संसारान्मुच्यते मोचयति मुमुक्षुर्भवति जपात्तेनैव शरीरेण
देवतादर्शनं करोति तस्मादिदमेव मुख्यद्वारं कलौ
नान्येषं भवति
तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च
गच्छति ॥ ५॥
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम् ॥
उमापतिः पशुपतिः पिनाकी ह्यमितद्युतिः ।
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्यो वै यजुर्वेदवाच्यस्त्वं
साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति
महाप्रथमान्तार्धस्याद्यन्तवतो द्वितीयान्तार्धस्याद्यं
षणं तृतीयान्तार्धस्याद्यं नाम चतुर्थान्तर्धस्याद्यं
साम जानीते सोऽमृतत्वं च गच्छति तस्मादिदं साम
सच्चिदानन्दमयं परं ब्रह्म तमेववंविद्वानमृत
इह भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते
सोऽमृतत्वं च गच्छति ॥ ६॥
विश्वसृज एतेन वै विश्वमिदमसृजन्त यद्विश्वमसृजन्त
तस्माद्विश्वसृजो विश्वमेनाननु प्रजायते ब्रह्मणः
सलोकतां सार्ष्टितां सायुज्यं यान्ति तस्मादिदं
साङ्गं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति
विष्णुं प्रथमान्त्यं मुखं द्वितीयान्त्यं भद्रं
तृतीयान्त्यं म्यहं चतुर्थ्यान्तं साम जानीयाद्यो
जानीते सोऽमृतत्वं च गच्छति स्त्रीपुंसयोर्वा इहैव
स्थातुमपेक्षते तस्मै सर्वैश्वैर्यं ददाति यत्र कुत्रापि
म्रियते देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे
येनासावमृतीभूत्वा सोऽमृतत्वं च गच्छति
तस्मादिदं साम मध्यगं जपति तस्मादिदं सामाङ्गं
प्रजापतिस्तस्मादिदं सामाङ्गं प्रजापतिर्य एवं वेदेति
महोपनिषत् । य एतां महोपनिषदं वेद स
कृतपुरश्चरणो महाविष्णुर्भवति महाविष्णुर्भवति ॥ ७॥
इति प्रथमोपनिषत् ॥ १॥
देवा ह वै मृत्योः पाप्मभ्यः संसाराच्च बिभीयुस्ते
प्रजापतिमुपाधावंस्तेभ्य एतं मन्त्रराजं
नारसिंहमानुष्टुभं प्रायच्छत्तेन वै ते मृत्युमजयन्
पाप्मानं चातरन्संसारं चातरंस्तस्माद्यो मृत्योः
पाप्मभ्यः संसाराच्च बिभीयात्स एतं मन्त्रराजं
नारसिंहमानुष्टुभं प्रतिगृह्णीयात्स मृत्युं तरति
स पाप्मानं तरति स संसारं तरति तस्य ह वै प्रणवस्य
या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिरृग्वेदो ब्रह्मा
वसवो गायत्री गार्हपत्यः सा साम्नः प्रथमः पादो भवति
द्वितीयान्तरिक्षं स उकारः स यजुभिर्यजुर्वेदो विष्णुरुद्रा-
स्त्रिष्टुब्दक्षिणाग्निः सा साम्नो द्वितीयः पादो भवति
तृतीया द्यौः स मकारः स सामभिः सामवेदो रुद्रा
आदित्या जगत्याहवनीयः सा साम्नस्तृतीयः पादो भवति
यावसानेऽस्य चतुर्थ्यर्धमात्रा स सोमलोक ओङ्कारः
सोऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो
विराडेकर्षिर्भास्वती स्मृता सा साम्नश्चतुर्थः
पादो भवति ॥ १॥
अष्टाक्षरः प्रथमः पादो भवत्यष्टाक्षरास्त्रयः
पादा भवन्त्येवं द्वात्रिंशदक्षराणि संपद्यन्ते
द्वात्रिंशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा
सर्वमिदं सृष्टमनुष्टुभा सर्वमुपसंहृतं
तस्य हैतस्य पञ्चाङ्गानि भवन्ति चत्वारः
पादाश्चत्वारङ्गानि भवन्ति सप्रणवं सर्वं
पञ्चमं भवति हृदयाय नमः शिरसे स्वाहा
शिखायै वषट् कवचाय हुं अस्त्राय फडिति
प्रथमं प्रथमेन संयुज्यते द्वितीयं द्वितीयेन
तृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं
पञ्चमेन व्यतिषजति व्यतिषिक्ता वा इमे
लोकास्तस्माद्व्यतिषिक्तान्यङ्गानि भवन्ति
ओमित्येतदक्षरमिदं सर्वं तस्मात्प्रत्यक्षरमुभयत
ओङ्कारो भवति अक्षराणां न्यासमुपदिशन्ति
ब्रह्मवादिनः ॥ २॥
तस्य ह वा उग्रं प्रथमं स्थानं जानीयाद्यो
जानीते सोऽमृतत्वं च गच्छति वीरं द्वितीयं स्थानं
महाविष्णुं तृतीयं स्थानं ज्वलन्तं चतुर्थं
स्थानं सर्वतोमुखं पञ्चमं स्थानं नृसिंहं
षष्ठं स्थानं भीषणं सप्तमं स्थानं
भद्रमष्टमं स्थानं मृत्युमृत्युं नवमं स्थानं
नमामि दशमं स्थानममेकादशं स्थानं
जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति एकादशपदा
वा अनुष्टुब्भवत्यनुष्टुभा सर्वमिदं सृष्टमनुष्टुभा
सर्वमिदमुपसंहृतं तस्मात्सर्वानुष्टुभं जानीयाद्यो
जानीते सोऽमृतत्वं च गच्छति ॥ ३॥
देव ह वै प्रजापतिमब्रुवन्नथ कस्मादुच्यत
उग्रमिति स होवाच प्रजापतिर्यस्मात्स्वमहिम्ना
सर्वांॅल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
भूतान्युद्वृह्णात्यजस्रं सृजति विसृजति
वासयत्त्युद्ग्राह्यत उद्गृह्यते स्तुहि श्रुतं गर्तसदं
युवानं मृगं न भीममुपहन्त्रुमुग्रं
मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः
तस्मादुच्यत उग्रमिति ॥
अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिम्ना
सर्वांॅल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति
यतो वीरः कर्मण्यः सुदृक्षो युक्तग्राव जायते
देवकामस्तस्मादुच्यते वीरमिति ॥
अथ कस्मादुच्यते महाविष्णुमिति यस्मात्स्वमहिम्ना
सर्वांॅल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
भूतानि व्याप्नोति व्यापयति स्नेहो यथा पललपिण्डं
शान्तमूलमोतं प्रोतमनुव्यासं व्यतिषिक्तो व्यापयते
यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा
प्रजापतिः प्रजया संविदानः त्रीणि ज्योतींषि सचते
सषोडषीं तस्मादुच्यते महाविष्णुमिति ॥
अथ कस्मादुच्यते ज्वलन्तमिति यस्मात्स्वमहिम्ना
सर्वाॅंल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते सविता प्रसविता
दीप्तो दीपयन्दीप्यमानः ज्वलं ज्वलिता
तपन्वितपन्त्संतपन्रोचनो
रोचमानः शोभनः शोभमानः कल्याणस्तस्मादुच्यते
ज्वलन्तमिति ॥
अथ कस्मादुच्यते सर्वतोमुखमिति यस्मात्स्वमहिम्ना
सर्वांॅल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि
स्वयमनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति
सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वगतस्तिष्ठति ।
एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनं सांपराये नमामि तमहं
सर्वतोमुखमिति तस्मादुच्यते सर्वतोमुखमिति ॥
अथ कस्मादुच्यते नृसिंहमिति यस्मात्सर्वेषां भूतानां
ना वीर्यतमः श्रेष्ठतमश्च सिंहो वीर्यतमः
श्रेष्ठतमश्च । तस्मान्नृसिंह आसीत्परमेश्वरो
जगद्धितं वा एतद्रूपं यदक्षरं भवति प्रतद्विष्णुस्तवते
वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु
त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा तस्मादुच्यते
नृसिंहमिति ॥
अथ कस्मादुच्यते भीषणमिति यस्माद्भीषणं
यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः
सर्वाणि भूतानि भीत्या पलायन्ते स्वयं यतः कुतश्च
न बिभेति भीषास्मत्द्वातः पवते भीषोदेति सूर्यः
भीषास्मादग्निश्चेन्द्रस्य मृत्युर्धावति पञ्चम
इति तस्मादुच्यते भीषणमिति ॥
अथ कस्मादुच्यते भद्रमिति यस्मात्स्वयं भद्रो भूत्वा
सर्वदा भद्रं ददाति रोचनो रोचमानः शोभनः
शोभमानः कल्याणः । भद्रं कर्णेभिः शृणुयाम
देवाः भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं
यदायुः तस्मादुच्यते भद्रमिति ॥
अथ कस्मादुच्यते मृत्युमृत्युमिति यस्मात्स्वमहिम्ना
स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति ।
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य
देवाः यस्य छायामृतं यो मृत्युमृत्युः कस्मै
देवाय हविषा विधेम तस्मादुच्यते मृत्युमृत्युमिति ॥
अथ कस्मादुच्यते नमामीति यस्माद्यं सर्वे देवा नमन्ति
मुमुक्षवो ब्रह्मवादिनश्च । प्र नूनं ब्रह्मणस्पतिर्मन्त्रं
वदत्युक्थ्यं यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि
चक्रिरे तस्मादुच्यते नमामीति ॥
अथ कस्मादुच्यतेऽहमिति । अहमस्मि प्रथमजा ऋतास्य
पूर्वं देवेभ्यो अमृतस्य नाभिः । यो मा ददाति स
इदेवमावाः अहमन्नमन्नमदन्तमद्मि अहं विश्वं
भुवनमभ्यभवां सुवर्णज्योतिर्य एवं वेदेति महोपनिषत् ॥
४॥
इति द्वितीयोपनिषत् ॥ २॥
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
मन्त्रराजस्य नारसिंहस्य शक्तिं बीजं नो
ब्रूहि भगवन्निति स होवाच प्रजापतिर्माया वा
एषा नारसिंही सर्वमिदं सृजति सर्वमिदं रक्षति
सर्वमिदं संहरति तस्मान्मायामेतां शक्तिं
विद्याद्य एअतां मायां शक्तिं वेद स पाप्मानं
तरति स मृत्युं तरति स संसारं तरति सोऽमृतत्वं
च गच्छति महतीं श्रियमश्नुते मीमांसन्ते
ब्रह्मवादिनो ह्रस्वा दीर्घा प्लुता चेति ॥
यदि ह्रस्वा भवति सर्वं पाप्मानं दहत्यमृतत्वं
च गच्छति यदि दीर्घा भवति महतीं
श्रियमाप्नोत्यमृतत्वं च गच्छति यदि प्लुता भवति
ज्ञानवान्भवत्यमृतत्वं च गच्छति तदेतदृषिणोक्तं
निदर्शनं स ईं पाहि य ऋजीषी तरुत्रः श्रियं
लक्ष्मीमौपलामम्बिकां गां षष्ठीं च
यामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं
सरूपामीआयुषे शरणमहं प्रपद्ये सर्वेषां वा
एतद्भूतानामाकाशः परायणं सर्वाणि ह वा इमानि
भूतान्याकाशादेव जायन्त आकाशादेव जातानि
जीवन्त्याकाशं प्रयत्यभिसंविशन्ति तस्मादाकाशं
बीजं विद्यात्तदेव ज्यायस्तदेतदृषिणोक्तं निदर्शनं
हंसः शुचिषद्वसुरन्तरिक्षसद्धोत
वेदिषदतिथिर्दुरोणसत् ॥
नृषद्वरसदृतसद्व्योमसदब्जागोजा ऋतजा अद्रिजा
ऋतं बृहत् ॥
य एवं वेदेति महोपनिषत् ॥
इति तृतीयोपनिषत् ॥ ३॥
देवा ह वै प्रजापतिमब्रुवन्ननुष्टुभस्य
मन्त्रराजस्य नारसिंहस्याङ्गमन्त्रान्नो
ब्रूहि भगव इति स होवाच प्रजापतिः प्रणवं
सावित्रीं यजुर्लक्ष्मीं नृसिंहगायत्रीमित्यङ्गानि
जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ १॥
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं
भूतं भवद्भविष्यदिति सर्वमोङ्कार एव
यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव सर्वं
ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा
चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग
एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः
प्रथमः पादः । स्वप्नस्थानोऽन्तप्रज्ञः
सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो
द्वितीयः पादः । यत्र सुप्तो न कञ्चन कामं
कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तं
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एकानन्दमयो
ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयो पादः ।
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष
योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं
न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्ट-
मव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्य-
मैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं
शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ २॥
अथ सावित्री गायत्र्या यजुषा प्रोक्ता तया
सर्वमिदं व्याप्तं घृणिरिति द्वे अक्षरे सूर्य
इति त्रीणि एतद्वै सावित्रस्याष्टाक्षरं पदं
श्रियाभिषिक्तं य एवं वेद श्रिया हैवाभिषिच्यते ।
तदेतदृचाभ्युक्तं ऋचो अक्षरे परमे
व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद
किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत
इति न ह वा एतस्यर्चा न यजुषा न साम्नार्थोऽस्ति
यः सावित्रं वेदेति । ॐभूर्लक्ष्मीर्भुवर्लक्ष्मीः
स्वर्लक्ष्मीः कालकर्णी तन्नो महालक्ष्मीः
प्रचोदयात् इत्येषा वै महाअलक्ष्मीर्यजुर्गायत्री
चतुर्विंशत्यक्षरा भवति । गायत्री वा इदं सर्वं
यदिदं किञ्च तस्माद्य एतां महालक्ष्मीं
याजुषीं वेद महतीं श्रियमश्नुते ।
ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि ।
तन्नः सिंहः प्रचोदयात् इत्येषा वै नृसिंहगायत्री
देवानां वेदानां निदानं भवति य एवं वेद
निदानवान्भवति ॥ ३॥
देवा ह वै प्रजापतिमब्रुवन्नथ कैर्मन्त्रैः
स्तुतो देवः प्रीतो भवति स्वात्मानं दर्शयति
तन्नो ब्रूहि भगवन्निति स होवाच प्रजापतिः ।
ॐ यो ह वै नृसिंहो देवो भगवान्यश्च
ब्रह्मा बूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १॥
यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा
सर्वमन्त्रेषु द्रष्टव्यौ
॥ यश्च विष्णुः ॥ २॥
यश्च महेश्वरः ॥ ३॥ यश्च पुरुषः ॥ ४॥
यश्चेश्वरः ॥ ५॥ या सरस्वती ॥ ६॥ या श्रीः ॥ ७॥
या गौरी ॥ ८॥ या प्रकृतिः ॥ ९॥ या विद्या ॥ १०॥
यश्चोङ्कारः ॥ ११॥ याशतस्रोऽर्धमात्राः ॥ १२॥
ये वेदाः साङ्गाः सशाखाः सेतिहासाः ॥ १३॥
ये च पञ्चाग्नयः ॥ १४॥ याः सप्त महाव्याहृतयः ॥ १५॥
ये चाष्टौ लोकपालाः ॥ १६॥ ये चाष्टौ वसवः ॥ १७॥
ये चैकादश रुद्राः ॥ १८॥ ये च द्वादशादित्याः ॥ १९॥
ये चाष्टौ ग्रहाः ॥ २०॥ यानि च पञ्चमहाभूतानि ॥ २१॥
यश्च कालः ॥ २२॥ यश्च मनुः ॥ २३॥ यश्च मृत्युः ॥ २४॥
यश्च यमः ॥ २५॥ यश्चान्तकः ॥ २६॥ यश्च प्राणः ॥ २७॥
यश्च सूर्यः ॥ २८॥ यश्च सोमः ॥ २९॥
यश्च विराट् पुरुषः ॥ ३०॥ यश्च जीवः ॥ ३१॥
यच्च सर्वम् ॥ ३२॥ इति द्वात्रिंशत् इति
तान्प्रजापतिरब्रवीदेतैर्मन्त्रैर्नित्यं देवं स्तुवध्वम् ।
ततो देवः प्रीतो भवति स्वात्मानं दर्शयति तस्माद्य
एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं
च गच्छति य एवं वेदेति महोपनिषत् ॥
इति चतुर्थ्युपनिषत् ॥ ४॥
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
मन्त्रराजस्य नारसिंहस्य महाचक्रं नाम
चक्रं नो ब्रूहि भगव इति सार्वकामिकं मोक्षद्वारं
उद्योगिन उपदिशन्ति स होवाच प्रजापतिः षडक्षरं
वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं
भवति षट्पत्रं चक्रं भवति षड्वा ऋतव ऋतुभिः
संमितं भवति मध्ये नाभिर्भवति नाभ्यां वा एते अराः
प्रतिष्ठिता मायया एतत्सर्वं वेष्टितं भवति
नात्मानं माया स्पृशति तस्मान्मायया बहिर्वेष्टितं
भवति । अथाष्टारमष्टपत्रं चक्रं भवत्यष्टाक्षरा
वै गायत्री गायत्र्या संमितं भवति बहिर्मायया
वेष्टितं भवति क्षेत्रं क्षेत्रं वै मायैषा सम्पद्यते ।
अथ द्वादशारं द्वादशपत्रं चक्रं भवति
द्वादशाक्षरा वै जगती जगत्या संमितं भवति
बहिर्मायया वेष्टितं भवति । अथ षोडशारं
षोडशपत्रं चक्रं भवति षोडशकालो वै पुरुषः
पुरुष एवेदं सर्वं पुरुषेण संमितं भवति
षोडशकालो वै पुरुषः पुरुष एवेदं सर्वं
पुरुषेण संमितं भवति मायया बहिर्वेष्टितं
भवति । अथ द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रं
भवति द्वात्रिंशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा
सर्वमिदं भवति बहिर्मायया वेष्टितं भवत्यरैर्वा
एतत्सुबद्धं भवति वेदा वा एते अराः पत्रैर्वा
एतत्सर्वतः परिक्रामति छन्दांसि वै पत्राणि ॥ १॥
एतत्सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यां
तारकं यदक्षरं नारसिंहमेकाक्षरं
तद्भवति षट्सु पत्रेषु षडक्षरं सुदर्शनं
भवत्यष्टसु पत्रेष्वष्टाक्षरं नारायणं
भवति द्वादशसु पत्रेषु द्वादशाक्षरं वासुदेवं
भवति षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः
षोडश स्वरा भवन्ति द्वात्रिंशत्सु पत्रेषु
द्वात्रिंशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं
भवति तद्वा एतत्सुदर्शनं नाम चक्रं सार्वकामिकं
मोक्षद्वारमृङ्मयं यजुर्मयं साममयं
ब्रह्ममयममृतमयं भवति तस्य पुरस्ताद्वसव
आसते रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा
उत्तरतो ब्रह्मविष्णुमहेश्वरा नाभ्यां सूर्याचन्द्रमसौ
पार्श्वयोस्तदेतदृचाभ्युक्तम् । ऋचो अक्षरे परमे
व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद
किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इति
तदेतत्सुदर्शनं महाचक्रे बालो वा युवा वा
वेद स महान्भवति स गुरुः सर्वेषां
मन्त्राणामुपदेष्टा भवत्यनुष्टुभा होमं
कुर्यादनुष्टुभार्चनं कुर्यात्तदेतद्रक्षोघ्नं
मृत्युतारकं गुरुणा लब्धं कण्ठे वाहौ
शिखायां वा बध्नीत सप्तद्वीपवती भूमिर्दक्षिणार्थं
नावकल्पते तस्माच्छ्रद्धया यां काञ्चिद्गां
दद्यात्स दक्षिणा भवति ॥ २॥
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
मन्त्रराजस्य नारसिंहस्य फलं नो ब्रूहि
भगव इति स होवाच प्रजापतिर्य एतं मन्त्रराजं
नारसिंहमानुष्टुभं नित्यमधीते सोऽग्नोपूतो
भवति स वायुपूतो भवति स आदित्यपूतो भवति
स सोमपूतो भवति स सत्यपूतो भवति स ब्रह्मपूतो
भवति स विष्णुपूतो भवति स रुद्रपूतो भवति
स सर्वपूतो भवति स सर्वपूतो भवति ॥ ३॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते स मृत्युं तरति स पाप्मानं तरति
स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां
तरति स संसारं तरति स सर्वं तरति स सर्वं तरति ॥ ४॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते सोऽग्निं स्तम्भयति स वायुं स्तम्भयति
स आदित्यं स्तम्भयति स स्तोमं स्तम्भयति स उदकं
स्तम्भयति स सर्वान्देवांस्तम्भयति स
सर्वान्ग्रहांस्तम्भयति स विषं स्तम्भयति
स विषं स्तम्भयति ॥ ५॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते स देवानाकर्षयति स यक्षानाकर्षयति
स नागानाकर्षयति स ग्रहानाकर्षयति स
मनुष्यानाकर्षयति स सर्वानाकर्षयति स
सर्वानाकर्षयति ॥ ६॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते स भूर्लोकं जयति स भुवर्लोकं जयति
स स्वर्लोकं जयति स महर्लोकं जयति स जनोलोकं
जयति स तपोलोकं जयति स सत्यलोकं जयति स
सर्वांल्लोकाञ्जयति स सर्वांल्लोकाञ्जयति ॥ ७॥
य एतं मन्त्रराजमानुष्टुभं नित्यमधीते
सोऽग्निष्टोमेन यजते स उक्थ्येन यजते स षोडशिना
यजते स वाजपेयेन यजते सोऽतिरात्रेण यजते
सोऽप्तोर्यामेण यजते सोऽश्वमेधेन यजते स सर्वैः
क्रतुभिर्यजते स सर्वैः क्रतुभिर्यजते ॥ ८॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स
सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते
स शाखा अधीते स पुराणान्यधीते स कल्पानधीते
स गाथामधीते स नाराशंसीरधीते स प्रणवमधीते
यः प्रणवमधीते स सर्वमधीते स सर्वमधीते ॥ ९॥
अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन
गृहस्थेन तत्समं गृहस्थशतमेकमेकेन
वानप्रस्थेन तत्समं वानप्रस्थशतमेकमेकेन
यतिना तत्समं यतीनां तु शतं पूर्णमेकमेकेन
रुद्रजापकेन तत्समं रुद्रजापकशतमेकमेकेन-
अथर्वशिरःशिखाध्यापकेन तत्सममथर्वशिरः-
शिखाध्यापकशतमेकमेकेन तापनीयोपनिषद-
ध्यापकेन तत्समं तापनीयोपनिषदध्यापक-
शतमेकमेकेन मन्त्रराजध्यापकेन तत्समं तद्वा
एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न
सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति
यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न
मृत्युः प्रविशति यत्र न दुःखं सदानन्दं
परमानन्दं शान्तं शाश्वतं सदाशिवं
ब्रह्मादिवन्दितं योगिध्येयं परमं पदं यत्र
गत्वा न निवर्तन्ते योगिनः ॥
तदेतदृचाभ्युक्तम् ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः
समिन्धते । विष्णोर्यत्परमं पदम् ।
तदेतन्निष्कामस्य भवति तदेतन्निष्कामस्य भवति
य एवं वेदेति महोपनिषत् ॥ १०॥
इति पञ्चमोपनिषत् ॥ ५॥
इति नृसिंहपूर्वतापिन्युपनिषत् ॥

॥ नृसिंहोत्तरतापिन्युपनिषत् ॥
नृसिंहोत्तरतापिन्यां तुर्यतुर्यात्मकं महः ।
परमाद्वैतसाम्राज्यं प्रत्यक्षमुपलभ्यते ॥
ॐ देवा ह वै प्रजापतिमब्रुवन्नणोरणीयां-
समिममात्मानमोङ्कारं नो व्याचक्ष्वेति
तथेत्योमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं
भूतं भवद्भविष्यदिति सर्वमोङ्कार एव
यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव सर्वं
ह्येतद्ब्रह्मायमात्मा ब्रह्म तमेतमात्मानमोमिति
ब्रह्मणैकीकृत्य ब्रह्म चात्मानमोमित्येकीकृत्य
तदेकमजरममृतमभयमोमित्यनुभूय
तस्मिन्निदं सर्वं त्रिशरीरमारोप्य तन्मयं हि
तदेवेति संहरेदोमिति तं वा एतं त्रिशरीरमात्मानं
त्रिशरीरं परं ब्रह्मानुसन्दध्यात्स्थूलत्वात्-
स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक्त्वा-
च्चैक्यादानन्दभोगाच्च सोऽयमात्मा
चतुष्पाज्जागरितस्थानः स्थूलप्रज्ञः सप्ताङ्ग
एकोनविंशतिमुखः स्थूलभुक् चतुरात्मा विश्वो
वैश्वानरः प्रथमः पादः ॥
स्वप्नस्थानः सूक्ष्मप्रज्ञः सप्ताङ्ग
एकोनविंशतिमुखः सूक्ष्मभुक् चतुरात्मा
तैजसो हिरण्यगर्भो द्वितीयः पादः ॥
यत्र सुप्तो न कञ्चन कामं कामयते न
कञ्चन स्वप्नं पश्यति तत्सुषुप्तं
सुषुप्तस्थान एकीभूतः प्रज्ञानघन
एवानन्दमयो ह्यानन्दभुक् चेतोमुखश्चतुरात्मा
प्राज्ञ ईश्वरस्तृतीयः पादः ॥
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामेष
योनिः सर्वस्य प्रभवाप्ययौ हि भूतानं
त्रयमप्येतत्सुषुप्तं स्वप्नं मायामात्रं
चिदेकरसो ह्ययमात्माथ तुरीयश्चतुरात्मा
तुरीयावसितत्वादेकैकस्योतानुज्ञात्रनुज्ञाविकल्पै-
स्त्रयमप्यत्रापिसुषुप्तं स्वप्नं मायामात्रं
चिदेकरसो ह्ययमात्माथायमादेशो न
स्थूलप्रज्ञं न सूक्ष्मप्रज्ञं नोभयतःप्रज्ञं
न प्रज्ञं नाप्रज्ञं न प्रज्ञानघन-
मदृष्टमव्यवहार्यमग्राह्यमलक्षण-
मचिन्त्यमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं
प्रपञ्चोपशमं शिवं शान्तमद्वैतं चतुर्थं
मन्यन्ते स आत्मा स विज्ञेय ईश्वरग्रासस्तुरीयस्तुरीयः ॥
इति प्रथमः खण्डः ॥ १॥
तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं
स्वप्ने जाग्रतमसुषुप्तं सुषुप्ते जाग्रतमस्वप्नं
तुरीये जाग्रतमस्वप्नमसुषुप्तव्यभिचारिणं
नित्यानन्दं सदेकरसं ह्येव चक्षुषो द्रष्टा
श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा
बुद्धेर्द्रष्टा प्राणस्य द्रष्टा तमसो द्रष्टा
सर्वस्य द्रष्टा ततः सर्वस्मादन्यो विलक्षणचक्षुषः
साक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षीः
बुद्धेः साक्षी प्राणस्य साक्षी तमसः साक्षी
सर्वस्य साक्षी ततोऽविक्रियो महाचैतन्योऽस्मात्सर्वस्मात्प्रियतम
आनन्दघनं ह्येवमस्मात्सर्वस्मात्पुरतः
सुविभातमेकरसमेवाजरममृतमभयं
ब्रह्मैवाप्यजयैनं चतुष्पादं मात्राभिरोङ्कारेण
चैकीकुर्याज्जागरितस्थानश्चतुरात्मा विश्वो
वैश्वानरश्चतूरूपोङ्कार एव चतूरूपो
ह्ययमकारः स्थूलसूक्ष्मबीजसाक्षिभिरकाररूपै-
राप्तेरादिमत्त्वाद्वा स्थूलत्वात्सूक्ष्मत्वाद्-
बीजत्वात्साक्षित्वाच्चाप्नोति ह वा इदं सर्वमादिश्च
भवति य एवं वेद ॥
स्वप्नस्थानश्चतुरात्मा तैजसो हिरण्यगर्भश्चतूरूप
उकार एव चतूरूपो ह्ययमुकारः स्थूलसूक्ष्मबीज-
साक्षिभिरुकाररूपैरुत्कर्षादुभयत्वात्स्थूलत्वात्-
सूक्ष्मत्वाद्बीजत्वात्साक्षित्वाच्चोत्कर्षति ह वै
ज्ञानसन्ततिं समानश्च भवति य एवं वेद ॥
सुषुप्तस्थानश्चतुरात्म प्राज्ञैइश्वरश्चतुरूपो
मकार एव चतूरूपो ह्ययं मकारः स्थूलसूक्ष्म-
बीजसाक्षिभिर्मकाररूपैर्मितेरपीतेर्वा स्थूलत्वात्-
सूक्ष्मत्वाद्बीजत्वात्साक्षित्वाच्च मिनोति ह वा
इदं सर्वमपीतिश्च भवति य एवं वेद ॥
मात्रामात्राः प्रतिमात्राः कुर्यादथ तुरीय ईश्वरग्रासः
स स्वराट् स्वयमीश्वरः स्वप्रकाशश्चतुरात्मो-
तानुज्ञात्रनुज्ञाविकल्पैरोतो ह्ययमात्मा ह्यथैवेदं
सर्वमन्तकाले कालाग्निः सूर्योस्रैरनुज्ञातो ह्ययमात्मा
ह्यस्य सर्वस्य स्वात्मानं ददातीदं सर्वं
स्वात्मानमेव करोति यथा तमः सवितनुज्ञकरसो
ह्ययमात्मा चिद्रूप एव यथा दाह्यं दग्ध्वाग्निरविकल्पो
ह्ययमात्मा वाङ्मनोऽगोचरत्वाच्चिद्रूपश्चतूरूप
ॐकार एव चतूरूपो ह्ययमोङ्कार ओतानुज्ञात्रनुज्ञा-
विकल्पैरोङ्काररूपैरात्मैव नामरूपात्मकं हीदं
सर्वं तुरीयत्वाच्चिद्रूपत्वाच्चोतत्वादनुज्ञातृत्वाद-
नुज्ञानत्वादविकल्परूपत्वाच्चाविकल्परूपं हीदं
सर्वं नैव तत्र काचन भिदास्त्यथ तस्यायमादेशो
मात्रश्चतुर्थो व्यवहार्यः प्रपञ्चोपशमः
शिवोऽद्वैत ॐकार आत्मैव संविशत्यात्मनात्मानं
य एवं वेदैष वीरो नारसिंहेन वानुष्टुभा
मन्त्रराजेन तुरीयं विद्यादेष ह्यात्मानं प्रकाशयति
सर्वसंहारसमर्थः परिभवासहः प्रभुर्व्याप्तः
सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा
द्वैतरहित आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो
निरस्ताविद्यातमोमोहोऽहमेवेति तस्मादेवमेवेममात्मानं
परं ब्रह्मानुसन्दध्यादेष वीरो नृसिंह एवेति ॥
इति द्वितीयः खण्डः ॥ २॥
तस्य ह वै प्रणवस्य या पूर्वा मात्रा सा प्रथमः
पादो भवति द्वितीया द्वितीयस्य तृतीया तृतीयस्य
चतुर्थ्योतानुज्ञात्रनुज्ञाविकल्परूपा तया तुरीयं
चतुरात्मानमन्विष्य चतुर्थपादेन च तया
तुरीयेणानुचिन्तयन्ग्रसेत्तस्य ह वा एतस्य प्रणवस्य
या पूर्वा मात्रा सा पृथिव्यकारः स ऋग्भिरृग्वेदो
ब्रह्मा वसवो गायत्री गार्हपत्यः सा प्रथमः पादो
भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्म-
बीजसाक्षिभिर्द्वितीयान्तरिक्षं स उकारः स यजुभिर्-
यजुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः सा द्वितीयः
पादो भवति च सर्वेषु पादेषु चतुरात्मा
स्थूलसूक्ष्मबीजसाक्षिभिस्तृतीया द्यौः स मकारः
स सामभिः सामवेदो रुद्रादित्या जगत्याहवनीयः सा
तृतीयः पादो भवति भवति च सर्वेषु पादेषु
चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्यावसानेऽस्य
चतुर्थ्यर्धमात्रा सा सोमलोक ॐकारः साथर्वणै-
र्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेकर्षिर्भास्वती
स्मृता चतुर्थः पादो भवति भवति च सर्वेषु पादेषु
चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्मात्रामात्राः
प्रतिमात्राः कृत्वोतनुज्ञात्रनुज्ञाविकल्परूपं
चिन्तयन्ग्रसेज्ज्ञोऽमृतो हुतसंवित्कः शुद्धः संविष्टो
निर्विग्न इममसुनियमेऽनुभूयेहेदं सर्वं दृष्ट्वा स
प्रपञ्चहीनोऽथ सकलः साधारोऽमृतमयश्चतुरात्माथ
महापीठे सपरिवारं तमेतं चतुःसप्तात्मानं
चतुरात्मानं मूलाग्नावग्निरूपं प्रणवं
सन्दध्यात्सप्तात्मानं चतुरात्मानमकारं रुद्रं
भ्रूमध्ये सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानं
चतुरात्मानमोङ्कारं सर्वेश्वरं द्वादशान्ते
सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानमोङ्कारं
तुरीयमानन्दामृतरूपं षोडशान्तेऽथानन्दामृतेनै-
तांश्चतुर्धा संपूज्य तथा ब्रह्माणमेव विष्णुमेव
रुद्रमेव विभक्तांस्त्रीनेवाविभक्तांस्त्रीनेव लिङ्गरूपनेव
च संपूज्योपहारैश्चतुर्धाथ लिङ्गात्संहृत्य
तेजसा शरीरत्रयं संव्याप्य तदधिष्ठानमात्मानं
संज्वाल्य तत्तेज आत्मचैतन्यरूपं बलमवष्टभ्य
गुणैरैक्यं संपाद्य महास्थूलं महासूक्ष्मे
महासूक्ष्मं महाकारणे च संहृत्य मात्राभिरोता-
नुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन्ग्रसेत् ॥
इति तृतीयः खण्डः ॥ ३॥
तं वा एतमात्मानं परमं ब्रह्मोङ्कारं
तुरीयोङ्काराग्रविद्योतमनुष्टुभा नत्वा प्रसाद्योमिति
संहृत्याहमित्यनुसन्दध्यादथैतमेवात्मानं
परमं ब्रह्मोङ्कारं तुरीयोङ्काराग्रविद्योतमेका-
दशात्मानं नारसिंहं नत्वोमिति संहरन्नानुसन्दध्या-
दथैतमेवमात्मानं परमं ब्रह्मोङ्कारं
तुरीयोङ्काराग्रविद्योतं प्रणवेन संचिन्त्यानुष्टुभा
नत्वा सच्चिदानन्दपूर्णात्मसु नवात्मकं
सच्चिदानन्दपूर्णात्मानं परं ब्रह्म संभाव्याह-
मित्यात्मानमादाय मनसा ब्रह्मणैकीकुर्याद्यदनुष्टुभैव
वा एष उपवसन्नेष हि सर्वत्र सर्वदा सर्वात्मा सन्
सर्वमत्ति नृसिंहोऽसौ परमेश्वरोऽसौ हि सर्वत्र सर्वदा
सर्वात्मा सन्त्सर्वमत्ति नृसिंह एवैकल एष तुरीय
एअष एवोग्र एष एव वीर एष एव महानेष एव विष्णुरेष
एव ज्वलन्नेष एव सर्वतोमुख एष एष नृसिंह एष एव
भीषण एष एव भद्र एष एव मृत्युमृत्युरेष एव
नमाम्येष एवाहमेवं योगारूढो ब्रह्मण्येवानुष्टुभं
सन्दध्यादोङ्कार इति ॥ तदेतौ श्लोकौ भवतः ॥
संस्तभ्य सिंह स्वसुतान्गुणार्था-
न्संयोज्य शृङ्गैरृषभस्य हत्वा ॥
वश्यां स्फुरन्तीमसतीं निपीड्य
संभक्ष्य सिंहेन स एष वीरः ॥
शृङ्गप्रोतान्पादान्स्पृष्ट्वा हत्वा तानग्रसत्स्वयम् ।
नत्वा च बहुधा दृष्ट्वा नृसिंहः स्वयमुद्बभाविति ॥
इति चतुर्थः खण्डः ॥ ४॥
अथैष उ एव अकार आप्ततमार्थ आत्मन्येव
नृसिंहे देवे ब्रह्मणि वर्तत एष ह्येवाप्ततम
एष हि साक्ष्येष ईश्वरस्तत्सर्वगतो नहीदं
सर्वमेष हि व्याप्ततमैदं सर्वं यदयमात्मा
मायामात्र एष एवोग्र एष हि व्याप्ततम एष
एव वीर एष हि व्याप्ततम एष एव महानेष
हि व्याप्ततम एष एव विष्णुरेष हि व्याप्ततम
एष एव ज्वलन्नेष हि व्याप्ततम एष एव
सर्वतोमुख एष हि व्याप्ततम एष एव नृसिंह
एष हि व्याप्ततम एष एव भीषण एष हि
व्याप्ततम एष एव भद्र एष हि व्याप्ततम
एष एव मृत्युमृत्युरेष हि व्याप्ततम एष
एव नमाम्येष हि व्याप्ततम एष एवाहमेष
हि व्याप्ततम आत्मैव नृसिंहो देवो ब्रह्म भवति
य एवं वेद सोऽकामो निष्काम आप्तकाम
आत्मकामेन तस्य प्राणा उत्क्रामन्त्यत्रैव
समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येत्यथैष
एवोङ्कार उत्कृष्टतमार्थ आत्मन्येव नृसिंहे
देवे ब्रह्मणि वर्तते तस्मादेष सत्यस्वरूपो न
ह्यन्यदस्त्यप्रमेयमनात्मप्रकाशमेष हि
स्वप्रकाशोऽसङ्गोऽन्यन्न वीक्षत आत्मातो
नान्यथा प्राप्तिरात्ममात्रं ह्येतदुत्कृष्टमेष
एवोग्र एष ह्येवोत्कृष्ट एष एव विष्णुरेष
ह्येवोत्कृष्ट एष एव ज्वलन्नेष ह्येवोत्कृष्ट
एष एव सर्वतोमुख एष ह्येवोत्कृष्ट एष एव
नृसिंह एष ह्येवोत्कृष्ट एष एव भीषण
एष ह्येवोत्कृष्ट एष एव भद्र एष ह्येवोत्कृष्ट
एष एव मृत्युमृत्युरेष ह्येवोत्कृष्ट एष
एव नमाम्येष ह्येवोत्कृष्ट एष एवाहमेष
ह्येवोत्कृष्टस्तस्मादात्मानमेवैनं जानीयादात्मैव
नृसिंहो देवो ब्रह्म भवति य एवं वेद सोऽकामो
निष्काम आप्तकाम आत्मकामो न तस्य प्राणा
उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव
सन्ब्रह्माप्येत्यथैष एव मकारो महाविभूत्यर्थ
आत्मन्यैव नृसिंहे देवे ब्रह्मणि वर्तते तस्मादयमनल्पो
भिन्नरूपः स्वप्रकाशो ब्रह्मैवाप्ततम
उत्कृष्टतम एतदेव ब्रह्मापि सर्वज्ञं महामायं
महाविभूत्येतदेवोग्रमेतद्धि महाविभूत्येतदेव
वीरमेतद्धि महाविभूत्यतदेव महदेतद्धि
महाविभूत्येतदेव विष्ण्वेतद्धि महाविभूत्येतदेव
ज्वलदेतद्धि महाविभूत्येतदेव सर्वतोमुखमेतद्धि
महाविभूत्येतदेव नृसिंहमेतद्धि महाविभूत्येतदेव
भीषणमेतद्धि महाविभूत्येतदेव भद्रमेतद्धि
महाविभूत्येतदेव मृत्युमृत्य्वेतद्धि महाविभूत्येतदेव
नमाम्येतद्धि महाविभूत्येतदेवाहमेतद्धि महाविभूति
तस्मादकारोकाराभ्यामिममात्मानमाप्ततममुत्कृष्टतमं
चिन्मात्रं सर्वद्रष्टारं सर्वसाक्षिणं सर्वग्रासं
सर्वप्रेमास्पदं सच्चिदानन्दमात्रमेकरसं
पुरतोऽस्मात्सर्वस्मात्सुविभातमन्विष्याप्ततममुत्कृष्टतमं
महामायं महाविभूति सच्चिदानन्दमात्रमेकरसं
पुरमेव ब्रह्म मकारेण जानीयादात्मैव नृसिंहो देवः
परमेव ब्रह्म भवति य एवं वेद सोऽकामो निष्काम
आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव
समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येतीति ह प्रजापतिरुवाच
प्रजापतिरुवाच ॥
इति पञ्चमः खण्डः ॥ ५॥
ते देवा इममात्मानं ज्ञातुमैच्छंस्तान्हासुरः
पाप्मा परिजग्राह त ऐक्षन्तहन्तैनमासुरं
पाप्मानं ग्रसाम इत्येतमेवोङ्काराग्रविद्योतं
तुरीयतुरीयमात्मानमुग्रमनुग्रं वीरमवीरं
महान्तममहान्तं विष्णुमविष्णुं
ज्वलन्तमज्वलन्तं सर्वतोमुखमसर्वतोमुखं
नृसिंहमनृसिंहं भीषणमभीषणं
भद्रमभद्रं मृत्युमृत्युममृत्युमृत्युं
नमाम्यनमाम्यहमनहं नृसिंहानुष्टुभैव
बुबुधिरे तेभ्यो हासावासुरः पाप्मा
सच्चिदानन्दघनज्योतिरभवत्तस्मादपक्वकषाय
इममेवोङ्काराग्रविद्योतं तुरीयतुरीयमात्मानं
नृसिंहानुष्टुभैव जानीयात्तस्यासुरः पाप्मा
सच्चिदानन्दघनज्योतिर्भवति ते देवा ज्योतिरुत्तितीर्षवो
द्वितीयाद्भयमेव पश्यन्त इममेवोङ्काराग्रविद्योतं
तुरीयतुरीयमात्मानमनुष्टुभान्विष्य प्रणवेनैव
तस्मिन्नवस्थितास्तेभ्यस्तज्ज्योतिरस्य सर्वस्य पुरतः
सुविभातमविभातमद्वैतमचिन्त्यमलिङ्गं
स्वप्रकाशमानन्दघनं शून्यमभवदेवंवित्स्वप्रकाशं
परमेव ब्रह्म भवति ते देवाः पुत्रैषणायाश्च
वित्तैषणायाश्च लोकैषणायाश्च ससाधनेभ्यो
व्युत्थाय निराकारा निष्परिग्रहा अशिखा अयज्ञोपवीता
अन्धा बधिरा मुग्धाः क्लीबा मूका उन्मत्त इव
परिवर्तमानाः शान्ता दान्ता उपरतास्तितिक्षवः
समाहिता आत्मरतय आत्मक्रीडा आत्ममिथुना
आत्मानन्दाः प्रणवमेव परं ब्रह्मात्मप्रकाशं
शून्यं जानन्तस्तत्रैव परिसमाप्तास्तस्माद्देवानां
व्रतमाचरन्नोङ्कारे परे ब्रह्मणि पर्यवसितो भवेत्स
आत्मन्येवात्मानं परं ब्रह्म पश्यति ॥
तदेष श्लोकः ॥
शृङ्गेश्वशृङ्गं संयोज्य सिंहं शृङ्गेषु योजयेत् ।
शृङ्गाभ्यां शृङ्गमाबध्य त्रयो देव उपासत इति ॥
इति षष्ठः खण्डः ॥ ६॥
देवा ह वै प्रजापतिमब्रुवन् भूय एव नो
भगवान्विज्ञापयत्विति तथेत्यजत्वादमरत्वाद-
जरत्वादमृतत्वादशोकत्वादमोहत्वादनशनायत्वाद-
पिपासत्वादद्वैतत्वाच्चाकरेणेममात्मान-
मन्विष्योत्कृष्टत्वादुत्पादकत्वादुत्प्रवेष्टत्वादु-
त्थापयितृत्वादुद्द्रष्टृत्वादुत्कर्तृत्वादुत्पथ-
वारकत्वाद्दुद्ग्रासत्वादुद्भ्रान्तत्वादुत्तीर्णविकृतत्वा-
च्चोङ्कारेणेममात्मानं परमं ब्रह्म
नृसिंहमन्विष्याकारेणेममात्मानमुकारं
पूर्वार्हमाकृष्य सिंहीकृत्योत्तरार्धेन तं
सिंहमाकृष्य महत्त्वान्महस्त्वान्मानत्वा-
न्मुक्तत्वान्महादेवत्वान्महेश्वरत्वान्महासत्त्वा-
न्महाचित्त्वान्महानन्दत्वान्महप्रभुत्वाच्च
मकारार्धेनानेनात्मनैकीकुर्यादशरीरो
निरिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्दमात्रः
स स्वराड् भवति य एवं वेद कस्त्वमित्यहमिति
होवाचैवमेवेदं सर्वं तस्मादहमिति सर्वाभिधानं
तस्यादिरयमकारः स एव भवति सर्वं ह्ययमात्मानं
हि सर्वान्तरो न हीदं सर्वमहमिति होवाचैव
निरात्मकमात्मैवेदं सर्वं तस्मात्सर्वात्मकेनाकारेण
सर्वात्मकमात्मानमन्विच्छेद्ब्रह्मैवेदं सर्वं
सच्चिदानन्दरूपं सच्चिदानन्दरूपमिदं सर्वं
सद्धीदं सर्वं सत्सदिति चिद्धीदं सर्वं काशते
प्रकाशते चेति किं सदितीदमिदं नेत्यनुभूतिरिति
कैषेतीयमियं नेत्यवचनेनैवानुभवन्नुवाचिअवमेव
चिदानन्दावप्यवचनेनैवानुभवन्नुवाच सर्वमन्यदिति
स परमानन्दस्य ब्रह्मणो नाम ब्रह्मेति तस्यान्त्योऽयं
मकारः स एव भवति तस्मान्मकारेण परमं
ब्रह्मान्विच्छेत्किमिदमेवमित्युकार इत्येवाहाविचिकित्स-
न्नकारेणेममात्मानमन्विष्य मकारेण ब्रह्मणानु-
सन्दध्यादुकारेणाविचिकित्सन्नशरीरोऽनिन्द्रियोऽप्राणोऽतमाः
सच्चिदानन्दमात्रः स स्वराड् भवति य एवं वेद
ब्रह्म वा इदं सर्वमत्तृत्वादुग्रत्वाद्वीरत्वान्महत्वाद्-
विष्णुत्वाज्ज्वलत्वात्सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वा-
द्भद्रत्वान्मृत्युमृत्युत्वान्नमामित्वादहंवादिति सततं
ह्येतद्ब्रह्मोग्रत्वाद्वीरत्वान्महत्त्वाद्विष्णुत्वाज्ज्वलत्वा-
सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वाद्भद्रत्वा-
न्मृत्युमृत्युत्वान्नमामित्वादिति तस्मादकारेण परमं
ब्रह्मान्विष्य मकारेण मन आद्यवितारं मन आदिसाक्षिण-
मन्विच्छेत्स यदैतत्सर्वमपेक्षते तदैतत्सर्वमस्मिन्प्रविशति
स यदा प्रतिबुध्यते तदेतत्सर्वमस्मादेवोत्तिष्ठति तदेव
तत्सर्वं निरूह्य प्रत्यूह्य संपीड्य संज्वाल्य संभक्ष्य
स्वात्मानमेवैषा ददात्यत्युग्रोऽतिवीरोतिमहानिति
विष्णुरतिज्वलन्नतिसर्वतोमुखोऽतिनृसिंहोऽतिभीषणोऽति-
भद्रोतिमृत्युमृत्युरतिनमामत्यहं भूत्वा स्वे महिम्नि
सदा समासते तस्मादेनमकारार्थेन परेण
ब्रह्मणैकीकुर्यादुकारेणाविचिकित्सन्नशरीरो
निरिन्द्रियोऽप्राणोऽमनः सच्चिदानन्दमात्रः स स्वराड् भवति
य एवं वेद॥
तदेष श्लोकः ॥
शृङ्गं शृङ्गार्धमाकृष्य शृङ्गेणानेन योजयेत् ।
शृङ्गमेनं परे शृङ्गे तमनेनापि योजयेत् ॥
इति सप्तमः खण्डः ॥ ७॥
अथ तुरीयेणोतश्च प्रोतश्च ह्ययमात्मा
नृसिंहोऽस्मिन्सर्वमयं सर्वात्मानं हि
सर्वं नैवातोऽद्वयो ह्ययमात्मैकल एवावविकल्पो
न हि वस्तु सदयं ह्योत इव सद्धनोऽयं चिद्धन
आनन्दघन एवैकरसोऽव्यवहार्यः केनचनाद्वितीय
ओतश्च प्रोतश्चैष ओङ्कार एवं नैवमिति पृष्ट
ओमित्येवाह वाग्वा ओङ्कारो वागेवेदं सर्वं न
ह्यशब्दमिवेहास्ति चिन्मयो ह्ययमोङ्कारश्चिन्मयमिदं
सर्वं तस्मात्परमेश्वर एवैकमेव तद्भवत्येत-
दमृतमयमेतद्ब्रह्माभयं वै ब्रह्म भवति
य एवं वेदेति रहस्यमनुज्ञाता ह्ययमात्मैष
ह्यस्य सर्वस्य स्वात्मानमनुजानाति न हीदं सर्वं
स्वत आत्मविन्न ह्ययमोतो नानुज्ञातासङ्गत्वाद-
विकारित्वादसत्त्वादन्यस्यानुज्ञाता ह्ययमोङ्कार
ओमिति ह्यनुजानाति वाग्वा ओङ्कारो वागेवेदं
सर्वमनुजानाति चिन्मयो ह्ययमोङ्कारश्चिद्धीदं
सर्वं निरात्मकमात्मसात्करोति तस्मात्परमेश्वर
एवैकमेव तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं
वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति
रहस्यमनुज्ञैकरसो ह्ययमात्मा प्रज्ञानघन
एवायं यस्मात्सर्वात्पुरतः सुविभातोऽतश्चिद्धन
एव न ह्ययमोतो नानुज्ञातैतदात्म्यं हीदं सर्वं
सदिवानुज्ञैकरसो ह्ययमोङ्कार ओमिति ह्येवान्नुजानाति
वाग्वा ओङ्कारो वागेव ह्यनुजानाति चिन्मयो
ह्ययमोङ्कारश्चिदेव ह्यनुज्ञाता तस्मात्परमेश्वर
एवैकमेव तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं
वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति
रहस्यमविकल्पो ह्ययमात्माऽद्वितीयत्वादविकल्पो
ह्ययमोङ्कारोऽद्वितीयत्वादेव चिन्मयो ह्ययमोङ्कार-
स्तस्मात्परमेश्वर एवैकमेव तद्भवत्यविकल्पोऽपि
नात्र काचन भिदास्ति नैव तत्र काचन भिदास्त्यत्र
हि भिदामिव मन्यमानः शतधा सहस्रधा भिन्नो
मृत्योः स मृत्युमाप्नोति तदेतदद्वयं स्वप्रकाशं
महानन्दमात्माइवैतदमृतमभयमेतद्ब्रह्माभयं
वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति
रहस्यम् ॥
इत्यष्टमः खण्डः ॥ ८॥
देवा ह वै प्रजापतिमब्रुवन्निममेव नो
भगवन्नोङ्कारमात्मानमुपदिशेति
तथेत्युपद्रष्टानुमन्तैष आत्मा
नृसिंहश्चिद्रूप एवाविकारो ह्युपलब्धः
सर्वस्य सर्वत्र न ह्यस्ति द्वैतसिद्धिरात्मैव
सिद्धोऽद्वितीयो मायया ह्यन्यदिव स वा एष
आत्मा पर एषैव सर्वं तथाहि प्रज्ञेनैषा
विद्या जगत्सर्वमात्मा परमात्मैव
स्वप्रकाशोऽप्यविषयज्ञानत्वाज्जानन्नेव
ह्यन्यत्रान्यन्न विजानात्यनुभुतेर्माया च
तमोरूपानुभूतिस्तदेतज्जडं मोहात्मकम-
नन्तमिदं रूपस्यास्य व्यञ्जिका नित्यनिवृत्तापि
मूढैरात्मेव दृष्टास्य सत्त्वमसत्त्वं च
दर्शयति सिद्धत्वासिद्धत्वाभ्यां स्वतन्त्रा-
स्वतन्त्रत्वने सैषा वटबीजसामान्यवदनेक-
वटशक्तिरेकैव तद्यथा वटबीजसामन्यमेक-
मनेकान्स्वाव्यतिरिक्तान्वटान्सबीजानुत्पाद्य तत्र
तत्र पूर्णं सत्तिष्ठत्येवमेवैषा माया
स्वाव्यतिरिक्तानि पूर्णानि क्षेत्राणि दर्शयित्वा
जीवेशावभासेन करोति माया चाविद्या च
स्वयमेव भवति सैषा चित्रा सुदृढा
बह्वङ्कुरा स्वयं गुणभिन्नाङ्कुरेष्वपि
गुणभिन्ना सर्वत्र ब्रह्मविष्णुशिवरूपिणी
चैतन्यदीप्ता तस्मादात्मन एव त्रैविध्यं
सर्वत्र योनित्वमभिमन्ता जीवो नियन्तेश्वरः
सर्वाहंमानी हिरण्यगर्भस्त्रिरूप ईश्वर-
वद्व्यक्तचैतन्यःसर्वगो ह्येष ईश्वरः
क्रियाज्ञानात्मा सर्वं सर्वमयं सर्वे जीवाः
सर्वमयाः सर्वास्ववस्थासु तथाप्यल्पाः
स वा एष भूतानिन्द्रियाणि विराजं देवताः
कोशांश्च सृष्ट्वा प्रविश्यामूढो
मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय
एवायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः
सत्यो मुक्तो निरञ्जनो विभुरद्वयानन्दः परः
प्रत्यगेकरसः प्रमाणैरेतैरवगतः सत्तामात्रं
हीदं सर्वं सदेव पुरस्तात्सिद्धं हि ब्रह्म न
ह्यत्र किञ्चानुभूयते नाविद्यानुभवात्मा
न स्वप्रकाशे सर्वसाक्षिण्यविक्रियेऽद्वये
पश्यतेहापि सन्मात्रमसदन्यत्सत्यं हीत्थं
पुरस्तादयोनि स्वात्मस्थमानन्दचिद्धनं
सिद्धं ह्यसिद्धं तद्विष्णुरीशानो ब्रह्मान्यदपि
सर्वं सर्वगतं सर्वमत एव शुद्धोऽबाध्यस्वरूपो
बुद्धः सुखस्वरूप आत्मा न ह्येतन्निरात्मकमपि
नात्मा पुरतो हि सिद्धो न हीदं सर्वं कदाचिदात्मा
हि स्वमहिमस्थो निरपेक्ष एक एव साक्षी स्वप्रकाशः
किं तन्नित्यमात्मात्र ह्येव न विचिकित्समेतद्धीदं
सर्वं साधयति द्रष्टा द्रष्टुः साक्ष्यविक्रियः
सिद्धो निरवद्यो बाह्याभ्यन्तरवीक्षणात्सुविस्फुटतमः
स परताद्ब्रूतैष दृष्टोऽदृष्टोऽव्यवहार्योऽप्यल्पो
नाल्पः साक्ष्यविशेषोऽनन्योऽसुखदुःखोऽद्वयः
परमात्मा सर्वज्ञोऽनन्तोऽभिन्नोऽद्वयः सर्वदा
संवित्तिर्मायया नासंवित्तिः स्वप्रकाशे यूयमेव
दृष्टाः किमद्वयेन द्वितीयमेव न यूयमेव
ब्रूह्येव भगवन्निति देवा ऊचुर्यूयमेव दृश्यते
चेन्नात्मज्ञा असङ्गो ह्ययमात्मातो यूयमेव
स्वप्रकाशा इदं हि सत्संविन्मयत्वाद्यूयमेव
नेति होचुर्हन्तासङ्गा वयमिति होचुः कथं
पश्यन्तीति होवाच न वयं विद्म इति होचुस्ततो
यूयमेव स्वप्रकाशा इति होवाच न च
सत्संविन्मया एतौ हि पुरस्तात्सुविभातमव्यवहार्य-
मेवाद्वयं ज्ञातो नैष विज्ञातो विदिताविदितात्पर
इति होचुः स होवाच तद्वा एतद्ब्रह्माद्वयं
ब्रह्मत्वान्नित्यं शुद्धं बुद्धं मुक्तं सत्यं
सूक्ष्मं परिपूर्णमद्वयं सदानन्दचिन्मात्र-
मात्मैवाव्यवहार्यं केन च तत्तदेतदात्मान-
मोमित्यपश्यन्तः पश्यत तदेतत्सत्यमात्मा
ब्रह्मैव ब्रह्मात्मैवात्र ह्येव न विचिकित्स्यमित्यों
सत्यं तदेतत्पण्डिता एव पश्यन्त्येतद्ध्यशब्द-
मस्पर्शमरूपमरसमगन्धमवक्तव्यमन-
दातव्यमगन्तव्यमविसर्जयितव्यमनानन्दयितव्य-
ममन्तव्यमबोद्धव्यममनहङ्कर्तयितव्यम-
चेतयितव्यमप्राणयितव्यमनपानयितव्यम-
व्यानयितव्यमनुदानयितव्यमसमानयितव्यम-
निन्द्रियमविषयमकरणमलक्षणमसङ्गम-
गुणमविक्रियमव्यपदेश्यमसत्त्वमरस्कम-
तमस्कममायमभयमप्यौपनिषदमेव
सुविभातं सकृद्विभातं पुरतोऽस्मात्सर्वस्मा-
त्सुविभातमद्वयं पश्यत हंसः सोऽहमिति स
होवाच किमेष दृष्टोऽदृष्टो वेति दृष्टो
विदिताविदितात्पर इति होचुः क्वैषा कथमिति होचुः
किं तेन न किंचनेति होचुर्यूयमेवाश्चर्यरूपा
इति होवाच न चेत्याहुरोमित्यनुजानीध्वं ब्रूतैनमिति
ज्ञातोऽज्ञातश्चेति होचुर्नचैनमिति होचुरिति
ब्रूतैवैवमात्मसिद्धमिति होवाच पश्याम
एव भगवो न च वयं पश्यामो नैव वयं वक्तुं
शक्नुमो नमस्तेऽस्तु भगवन् प्रसीदेति होचुर्न
भेतव्यं पृच्छतेति होवाच क्वैषनुज्ञेत्येष
एवात्मेति होवाच ते होचुर्नमस्तुभ्यं वयं त इति ह
प्रजापतिर्देवाननु शशासानुशशासेति ॥
तदेष श्लोकः ॥
ओतमोतेन जानीयादनुज्ञातारमान्तरम् ।
अनुज्ञामद्वयं लब्ध्वा उपद्रष्टारमाव्रजेत् ॥
इति नवमः खण्डः ॥ ९॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति नृसिंहोत्तरतापिन्युपनिषत्समाप्ता ॥